पाठ-योजना सङ्ख्या - 0४
पाठ-योजना सङ्ख्या - 0४ दिनाङ्कः - ०२-०७-२०२६ पाठकालः - प्रथमः कक्षा - ११ विषयः - संस्कृतम् पाठस्य नाम - परोपकाराय सतां विभूतयः उपविषयः १. पाठ-परिचयः। २. आर्यशूरस्य परिचयः। ३. जातकमालाग्रन्थस्य परिचयः। ४. बोधिसत्त्वस्य परोपकारभावः। ५. शब्दार्थः, हिन्दी-अनुवादः, भावार्थश्च। शिक्षण-उद्देश्याः १. छात्राः पाठस्य परिचयं ज्ञास्यन्ति। २. छात्राः आर्यशूरस्य तथा जातकमालायाः परिचयं प्राप्स्यन्ति। ३. छात्राः कठिनपदानां शब्दार्थान् अवगमिष्यन्ति। ४. छात्राः पाठस्य भावार्थम् अवबोधिष्यन्ति। ५. छात्राः परोपकारस्य, दयायाः तथा सत्यस्य महत्त्वम् अनुभोत्स्यन्ति। पूर्वज्ञान-परीक्षणम् १. परोपकारः किम्? २. जातककथा किमुच्यते? ३. बोधिसत्त्वः कः आसीत्? ४. सत्यस्य महत्त्वं किम्? शिक्षण-सामग्री १. पाठ्यपुस्तकम्। २. श्यामपट्टः। ३. श्वेतलेखनी। ४. चित्राणि। ५. कार्यपत्रिका। शिक्षण-विधिः १. व्याख्यान-विधिः। २. प्रश्नोत्तर-विधिः। ३. वाचन-विधिः। ४. चर्चा-विधिः। ५. सहभागिता-विधिः। शिक्षण-प्रक्रिया प्रस्तावना १. शिक्षकः परोपकारविषये प्रश्नान् पृच्छति। २. छात्राः स्वविचारान् प्रस्तौष्यन्त...