पाठ-योजना संख्या–०२
पाठ-योजना संख्या-०२
विद्यालयस्य नाम : राजकीयकृत +२ उच्चविद्यालयः, सोनारायठारी, देवघरः
विषयः : संस्कृतम्
कक्षा : एकादशी
पाठस्य नाम : वेदामृतम्
शिक्षकः संजय कुमार कुशवाहा
पाठकाल:–०१
दिनाङ्कः : १७/०६/२०२६
कालांशः : एकः (४५ मिनट)
शिक्षणोद्देश्यानि
(१) छात्राः वेदानां परिचयं प्राप्स्यन्ति।
(२) छात्राः ऋग्वेदस्य महत्त्वं ज्ञास्यन्ति।
(३) छात्राः "सङ्गच्छध्वम्" मन्त्रस्य भावार्थं अवगमिष्यन्ति।
(४) छात्रेषु संगठनभावना विकसितं भविष्यति।
पूर्वज्ञानपरीक्षणम्
(१) वेदाः केषां प्राचीनतमग्रन्थानां गणनायां भवन्ति?
(२) वेदेषु किं वर्णितम् अस्ति?
(३) समाजे एकतायाः किं महत्त्वम्?
प्रस्तावना
अध्यापकः वेदानां परिचयं ददाति। वेदाः भारतीयसंस्कृतेः मूलस्रोतः इति कथयति। ततः "वेदामृतम्" पाठस्य उद्देश्यं स्पष्टयति।
पाठप्रस्तुतीकरणम्
मन्त्रः
"सङ्गच्छध्वं सं वदध्वं सं वो मनांसि जानताम्।"
शिक्षणबिन्दवः
१.संगठनम्
२.एकता
३.सहयोगः
४.समानचिन्तनम्
५.व्याख्या
अध्यापकः मन्त्रस्य शुद्धोच्चारणं कारयति। ततः मन्त्रस्य शब्दार्थं, भावार्थं तथा जीवनोपयोगितां विवेचयति।
बोधप्रश्नाः
(१) सङ्गच्छध्वम् इत्यस्य अर्थः कः?
(२) देवाः कथं भागम् उपासते स्म?
(३) मन्त्रस्य मुख्यः सन्देशः कः?
श्यामपट्टकार्यं
सङ्गच्छध्वम् = सह गच्छामः।
सं वदध्वम् = मिलित्वा वदामः।
समानि मनांसि = समानविचाराः।
गृहकार्यम्
सङ्गच्छध्वम् मन्त्रं कण्ठस्थं कुर्वन्तु।
पाठकाल:–०२
दिनाङ्कः : १८/०६/२०२६
पूर्वपुनरावृत्तिः
सङ्गच्छध्वम् मन्त्रस्य पुनरावृत्तिः।
पाठप्रस्तुतीकरणम्
मन्त्रः
"समानी व आकूतिः समाना हृदयानि वः।"
शिक्षणबिन्दवः
१.समानसंकल्पः
२.समानलक्ष्यम्
३.संगठनस्य बलम्
४.व्याख्या
आकूतिः = संकल्पः। यदि सर्वेषां संकल्पः समानः भवति तर्हि समाजः उन्नतिं गच्छति।
बोधप्रश्नाः
(१) आकूतिः किम्?
(२) समानहृदयस्य लाभः कः?
(३) संगठनस्य आधारः कः?
श्यामपट्टकार्यं
आकूतिः = संकल्पः।
समाना = समानः।
गृहकार्यम्
समानसंकल्पस्य महत्त्वं पञ्चवाक्येषु लिखन्तु।
पाठकाल:–०३
दिनाङ्कः : १९/०६/२०२६
पूर्वपुनरावृत्तिः
प्रथमद्वयोः मन्त्रयोः पुनरावलोकनम्।
पाठप्रस्तुतीकरणम्
मन्त्रः
"मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः।"
शिक्षणबिन्दवः
१.विश्वकल्याणम्
२.पर्यावरणसंरक्षणम्
३.प्रकृतिप्रेम
४.व्याख्या
५.वायु, नदी, औषधयः, पृथिवी च सर्वेषां हिताय भवन्तु इति प्रार्थना।
बोधप्रश्नाः
(१) सिन्धवः के?
(२) औषधयः कीदृश्यः सन्तु?
(३) मन्त्रस्य उद्देश्यः कः?
श्यामपट्टकार्यं
मधु = हितकरम्।
सिन्धवः = नद्यः।
गृहकार्यम्
प्रकृतिसंरक्षणस्य महत्त्वं लिखन्तु।
पाठकाल:–०४
दिनाङ्कः : २२/०६/२०२६
पाठप्रस्तुतीकरणम्
मन्त्रः
"तन्मे मनः शिवसङ्कल्पमस्तु।"
शिक्षणबिन्दवः
१.मनसः महत्त्वम्
२.शुभसंकल्पः
३.आत्मनियन्त्रणम्
४.व्याख्या
मनः सर्वक्रियाणां मूलम् अस्ति। शुभसंकल्पयुक्तं मनः एव जीवनं सफलं करोति।
बोधप्रश्नाः
(१) शिवसङ्कल्पः कः?
(२) मनः कीदृशं भवेत्?
(३) मनसः वैशिष्ट्यं किम्?
श्यामपट्टकार्यं
शिवसङ्कल्पः = शुभविचारः।
मनः = अन्तःकरणम्।
गृहकार्यम्
"मनसः वैशिष्ट्यम्" पञ्चवाक्येषु लिखन्तु
पाठकाल:–०५
दिनाङ्कः : २३/०६/२०२६
पाठप्रस्तुतीकरणम्
मन्त्रः
"पश्येम शरदः शतं..."
तथा
"जनं बिभ्रती बहुधा विवाचसम्।"
शिक्षणबिन्दवः
१.दीर्घायु
२.मातृभूमेः महिमा
३.विश्वबन्धुत्वम्
४.बोधप्रश्नाः
(१) शतं शरदः किमर्थम्?
(२) पृथिवी कान् धारयति?
(३) विवाचसम् इत्यस्य अर्थः कः?
श्यामपट्टकार्यं
विवाचसम् = नानाभाषिणः।
पृथिवी = माता।
गृहकार्यम्
पृथिव्याः महत्त्वं लिखन्तु।
पाठकाल:–०६
दिनाङ्कः : २४/०६/२०२६
कक्षा : द्वादशी
विषयः : संस्कृतम्पाठस्य नाम : वेदामृतम्
पाठोत्तर अभ्यासः
अभ्यासकार्याणि
१. संस्कृतभाषया उत्तरत।
२. अधोलिखितक्रियापदैः सह कर्तृपदानि योजयत।
३. शुद्धं विलोमपदं योजयत।
४. अधोलिखितपदानाम् आशयं हिन्दीभाषया स्पष्टीकुरुत।
मूल्याङ्कनम्
१. संस्कृतभाषया उत्तरलेखनम्।
२. कर्तृ-क्रियापदयोजनस्य शुद्धता।
३. विलोमपदानां ज्ञानम्।
४. पदार्थज्ञानम्।
गृहकार्यम्
१. प्रश्न संख्या १–४ पुनः लिखन्तु।
२. उत्तराणि कण्ठस्थानि कुर्वन्तु।
पाठ-योजना (पाठोत्तर अभ्यास)
पाठकाल:–०७
दिनाङ्कः : २५/०६/२०२६
कक्षा : द्वादशी
विषयः : संस्कृतम्पाठस्य नाम : वेदामृतम्
पाठोत्तर अभ्यासः
अभ्यासकार्याणि
१. वेदे प्रकल्पितस्य समाजस्य आदर्शस्वरूपं पञ्चवाक्येषु लिखत।
२. मनसः वैशिष्ट्यं पञ्चवाक्येषु लिखत।
३. पश्येम, शृणुयाम, प्रब्रवाम इति क्रियापदानि केन इन्द्रियेण सम्बद्धानि इति लिखत।
४. अधोलिखितवैदिकक्रियापदानां स्थाने लौकिकक्रियापदानि लिखत।
मूल्याङ्कनम्
१. वर्णनात्मकप्रश्नानां उत्तरलेखनम्।
२. व्याकरणसम्बद्धप्रश्नानां समाधानम्।
३. शुद्धभाषाप्रयोगः।
४. विषयावबोधनम्।
गृहकार्यम्
१. सम्पूर्णान् अभ्यासप्रश्नान् पुनरभ्यसन्तु।
२. सम्पूर्णपाठस्य पुनरावृत्तिं कुर्वन्तु।
पाठकाल:–०८
समापन एवं मूल्याङ्कनम्
दिनाङ्कः : २६/०६/२०२६
पुनरावृत्तिः
सम्पूर्णपाठस्य पुनरावलोकनम्।
मूल्याङ्कनम्
(१) सङ्गच्छध्वम् इति मन्त्रस्य मुख्यः सन्देशः कः?
(२) शिवसङ्कल्पमस्तु इत्यस्य भावः कः?
(३) पृथिवीसूक्ते पृथिव्याः स्वरूपं वर्णयत।
(४) मनसः वैशिष्ट्यं लिखत।
(५) वेदे प्रकल्पितस्य समाजस्य आदर्शस्वरूपं लिखत।
(६) वैदिकक्रियापदानां लौकिकरूपाणि लिखत।
गृहकार्यम्
"वैदिकसाहित्यात् प्राप्ताः मानवीयमूल्याः" इति विषये दशवाक्यात्मकं संस्कृतनिबन्धं लिखन्तु।
उपसंहारः
अध्यापकः निष्कर्षरूपेण कथयति यत् वेदाः केवलं धार्मिकग्रन्थाः न सन्ति, अपितु ते मानवजीवनस्य सर्वाङ्गीणविकासस्य, विश्वबन्धुत्वस्य, नैतिकमूल्यानां, पर्यावरणसंरक्षणस्य, राष्ट्रप्रेम्णः च आधारभूताः ग्रन्थाः सन्ति। अतः अस्माभिः वेदेषु प्रतिपादितानां आदर्शानां अनुसरणं कर्तव्यम्।
अपेक्षित अधिगमफलानि
(१) छात्राः सम्पूर्णपाठस्य भावार्थं सम्यग् अवगमिष्यन्ति।
(२) मन्त्राणां शुद्धपठनं व्याख्यानं च करिष्यन्ति।
(३) अभ्यासप्रश्नान् स्वयमेव समाधानं करिष्यन्ति।
(४) संस्कृतभाषायां उत्तरलेखनकौशलं विकसितं भविष्यति।
(५) वैदिकमूल्यानि स्वजीवने अनुप्रयोजयितुं प्रेरिताः भविष्यन्ति।
टिप्पणियाँ
एक टिप्पणी भेजें