पाठयोजना सङ्ख्या - ०३


पाठयोजना सङ्ख्या - ०३
वारः - ___________ तः ___________ पर्यन्तम्
दिनाङ्कः - ___________
कक्षा - १२
विषयः - संस्कृतम्
पाठः - द्वितीयः - रघुकौत्ससंवादः
पुस्तकम् - शाश्वती भागः - २ (जेसीईआरटी/एनसीईआरटी)
शिक्षणोद्देश्यानि
१. छात्राः महाकवेः कालिदासस्य जीवनपरिचयं रघुवंशमहाकाव्यस्य परिचयं च ज्ञास्यन्ति।
२. छात्राः रघोः कौत्सस्य च संवादं सम्यक् अवगमिष्यन्ति।
३. छात्राः गुरुभक्तेः, गुरुदक्षिणायाः, दानशीलतायाः, कर्तव्यपरायणतायाश्च महत्त्वम् अवगमिष्यन्ति।
४. छात्राः पद्यानां शब्दार्थं, अन्वयं, हिन्दीभाषायामर्थं च वक्तुं समर्थाः भविष्यन्ति।
५. छात्राः पाठे प्रयुक्तान् अलङ्कारान् परिचेष्यन्ति।
६. छात्राः पाठाधारितप्रश्नानाम् उत्तराणि लिखितुं समर्थाः भविष्यन्ति।
७. छात्राः पाठात् नैतिकमूल्यानि स्वजीवने धारयितुं प्रेरिताः भविष्यन्ति।
पूर्वज्ञानम्
१. छात्राः गुरुशिष्यपरम्परायाः सामान्यज्ञानं धारयन्ति।
२. छात्राः महाकवेः कालिदासस्य नाम जानन्ति।
३. छात्राः गुरुदक्षिणायाः सामान्यं ज्ञानं धारयन्ति।
४. छात्राः दानस्य परोपकारस्य च महत्त्वं जानन्ति।
शिक्षणसामग्री
१. पाठ्यपुस्तकम्।
२. श्यामपट्टः।
३. श्वेतलेखनी।
४. अयोध्यानगर्याः मानचित्रम्।
५. कालिदासस्य चित्रम्।
६. रघोः कौत्सस्य च चित्रम्।
७. सङ्गणकः अथवा स्मार्टबोर्डः (यदि उपलब्धः भवेत्)।
प्रस्तावना
शिक्षकः छात्रान् निम्नलिखितप्रश्नान् पृच्छेत् -
१. गुरुदक्षिणा किम्?
२. प्राचीनकाले गुरुशिष्यसम्बन्धः कथमासीत्?
३. कालिदासः कः आसीत्?
४. दानवीरः इति कं कथयन्ति?
ततः शिक्षकः पाठस्य संक्षिप्तं परिचयं दद्यात्।
पाठप्रस्तुतीकरणम्
पाठ कालः - १
दिनाङ्कः 
कालांशः : एकः (४५ मिनट)
१. महाकवेः कालिदासस्य परिचयः।
२. रघुवंशमहाकाव्यस्य परिचयः।
३. विश्वजिद्यज्ञस्य परिचयः।
४. रघोः कौत्सस्य च परिचयः।
पाठ कालः - २
दिनाङ्कः
१. श्लोकानां १-५ शुद्धवाचनम्।
२. पदच्छेदः।
३. शब्दार्थः।
४. अन्वयः।
५. हिन्दीभाषायामर्थः।
६. भावार्थस्य व्याख्या।
पाठ कालः - ३
दिनाङ्कः
१. श्लोकानां ६-१० अध्ययनम्।
२. कौत्सस्य निराशा।
३. रघोः विनयशीलता।
४. अतिथिसत्कारस्य महत्त्वम्।
५. अर्थान्तरन्यासालङ्कारस्य परिचयः।
पाठ कालः - ४
दिनाङ्कः
१. श्लोकानां ११-१५ अध्ययनम्।
२. गुरुदक्षिणाप्रसङ्गः।
३. चतुर्दशविद्यानां परिचयः।
४. चतुर्दशकोटिसुवर्णमुद्राणां याचनम्।
५. गुरुभक्तेः आदर्शः।
पाठ कालः - ५
दिनाङ्कः
१. श्लोकानां १६-२० अध्ययनम्।
२. रघोः प्रतिज्ञा।
३. कुबेरात् सुवर्णवृष्टिः।
४. रघोः उदारता।
५. कौत्सस्य निर्लोभता।
६. पाठस्य उपसंहारः।
विषयविस्तारः
महाकविः कालिदासः
१. संस्कृतसाहित्यस्य महान् महाकविः।
२. रघुवंशः, कुमारसम्भवम्, मेघदूतम्, अभिज्ञानशाकुन्तलम् इत्यादीनां ग्रन्थानां रचयिता।
पाठसारः
अस्मिन् पाठे महर्षेः वरतन्तोः शिष्यस्य कौत्सस्य गुरुदक्षिणार्थं चतुर्दशकोटिसुवर्णमुद्राणां याचनम्, महाराजरघोः दानशीलता, अतिथिसत्कारः, वचनपालनम्, कौत्सस्य निर्लोभता च वर्णिता अस्ति।
नैतिकमूल्यानि
१. गुरुसेवा सर्वश्रेष्ठा।
२. ज्ञानं धनात् श्रेष्ठम्।
३. दानं सत्पात्राय एव करणीयम्।
४. वचनपालनं कर्तव्यम्।
५. स्वाभिमानः महागुणः।
६. आवश्यकताातिरिक्तस्य संग्रहः न करणीयः।
७. दाता याचकश्च उभौ समाजस्य आदर्शौ स्तः।
मूल्याङ्कनम्
मौखिकप्रश्नाः
१. कौत्सः कस्य शिष्यः आसीत्?
२. गुरुदक्षिणारूपेण कियत्यः सुवर्णमुद्राः अपेक्षिताः आसन्?
३. रघुः कं यज्ञम् अकरोत्?
४. कुबेरः किं कृतवान्?
५. कौत्सः अधिकं धनं कुतः न स्वीकृतवान्?
लिखितप्रश्नाः
१. रघोः दानशीलतां वर्णयत।
२. कौत्सस्य चरित्रवैशिष्ट्यानि लिखत।
३. वरतन्तुः चतुर्दशकोटिसुवर्णमुद्राः किमर्थम् अयाचत?
४. अस्मात् पाठात् प्राप्ताः शिक्षाः लिखत।
५. उपमालङ्कारस्य अर्थान्तरन्यासालङ्कारस्य च उदाहरणानि लिखत।
श्यामपट्टकार्यम्
१. विश्वजिद्यज्ञः।
२. गुरुदक्षिणा।
३. चतुर्दशविद्याः।
४. दानशीलता।
५. निर्लोभता।
६. उपमालङ्कारः।
७. अर्थान्तरन्यासालङ्कारः।
गृहकार्यम्
१. सम्पूर्णपाठस्य हिन्दीभाषायामनुवादं लिखत।
२. प्रथमात् पञ्चमश्लोकपर्यन्तं कण्ठस्थं कुरुत।
३. रघोः कौत्सस्य च चरित्रयोः तुलनां कुरुत।
४. पाठात् प्राप्ताः पञ्च नैतिकशिक्षाः लिखत।
५. पाठे प्रयुक्तानाम् अलङ्काराणाम् उदाहरणानि सङ्गृह्य लिखत।
अधिगमफलानि
१. छात्राः शुद्धोच्चारणेन पाठं पठिष्यन्ति।
२. छात्राः शब्दार्थम् अन्वयं च वदिष्यन्ति।
३. छात्राः भावार्थं स्पष्टयिष्यन्ति।
४. छात्राः पाठाधारितप्रश्नानाम् उत्तराणि लिखिष्यन्ति।
५. छात्राः गुरुभक्तेः, दानशीलतायाः, कर्तव्यपरायणतायाश्च आदर्शान् स्वजीवने अनुसरिष्यन्ति।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

पाठ योजना के प्रमुख बिन्दु

Class12 PROJECT RAIL7/7/2026

दैनिक शिक्षण गतिविधि-०१