पाठ-योजना सङ्ख्या - 0४

पाठ-योजना सङ्ख्या - 0४

दिनाङ्कः - ०२-०७-२०२६
पाठकालः - प्रथमः
कक्षा - ११
विषयः - संस्कृतम्
पाठस्य नाम - परोपकाराय सतां विभूतयः

उपविषयः
१. पाठ-परिचयः।
२. आर्यशूरस्य परिचयः।
३. जातकमालाग्रन्थस्य परिचयः।
४. बोधिसत्त्वस्य परोपकारभावः।
५. शब्दार्थः, हिन्दी-अनुवादः, भावार्थश्च।

शिक्षण-उद्देश्याः
१. छात्राः पाठस्य परिचयं ज्ञास्यन्ति।
२. छात्राः आर्यशूरस्य तथा जातकमालायाः परिचयं प्राप्स्यन्ति।
३. छात्राः कठिनपदानां शब्दार्थान् अवगमिष्यन्ति।
४. छात्राः पाठस्य भावार्थम् अवबोधिष्यन्ति।
५. छात्राः परोपकारस्य, दयायाः तथा सत्यस्य महत्त्वम् अनुभोत्स्यन्ति।

पूर्वज्ञान-परीक्षणम्
१. परोपकारः किम्?
२. जातककथा किमुच्यते?
३. बोधिसत्त्वः कः आसीत्?
४. सत्यस्य महत्त्वं किम्?

शिक्षण-सामग्री
१. पाठ्यपुस्तकम्।
२. श्यामपट्टः।
३. श्वेतलेखनी।
४. चित्राणि।
५. कार्यपत्रिका।

शिक्षण-विधिः
१. व्याख्यान-विधिः।
२. प्रश्नोत्तर-विधिः।
३. वाचन-विधिः।
४. चर्चा-विधिः।
५. सहभागिता-विधिः।

शिक्षण-प्रक्रिया

प्रस्तावना
१. शिक्षकः परोपकारविषये प्रश्नान् पृच्छति।
२. छात्राः स्वविचारान् प्रस्तौष्यन्ति।
३. पाठस्य विषये जिज्ञासा उत्पद्यते।

विषय-प्रस्तुतीकरणम्
१. आर्यशूरस्य परिचयः प्रदास्यते।
२. जातकमालायाः परिचयः क्रियते।
३. पाठस्य सस्वरवाचनं भविष्यति।
४. कठिनपदानां शब्दार्थाः स्पष्टाः भविष्यन्ति।
५. हिन्दी-अनुवादः तथा भावार्थः व्याख्यास्यते।
६. बोधिसत्त्वस्य परोपकारभावः विवेच्यते।

बोध-प्रश्नाः
१. जातकमालायाः लेखकः कः?
२. बोधिसत्त्वः कस्य रूपेण अवतीर्णः?
३. बोधिसत्त्वस्य प्रमुखः गुणः कः आसीत्?
४. परोपकारस्य महत्त्वं किम्?
५. अस्माभिः किं शिक्षितव्यम्?

श्यामपट्ट-कार्य्यम्
१. जातकमाला।
२. बोधिसत्त्वः।
३. परोपकारः।
४. सत्यम्।
५. शीलम्।

मूल्याङ्कनम्
१. मौखिक-प्रश्नोत्तरम्।
२. शब्दार्थ-लेखनम्।
३. अनुवादः।
४. भावार्थ-लेखनम्।
५. संस्कृतभाषया उत्तरलेखनम्।

गृहकार्य्यम्
१. पाठस्य शब्दार्थान् लिखत।
२. पाठस्य सारांशं स्वशब्दैः लिखत।
३. "परोपकाराय सतां विभूतयः" इति शीर्षकस्य औचित्यं लिखत।
४. पञ्च प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत।

जीवन-मूल्यानि
१. परोपकारः मानवस्य श्रेष्ठः धर्मः अस्ति।
२. सत्यस्य शक्तिः सर्वदा विजयिनी भवति।
३. दयालुतया सर्वेषां कल्याणं भवति।
४. शीलं मनुष्यस्य परमं भूषणम् अस्ति।

अपेक्षित-अधिगम-फलम्
१. छात्राः पाठस्य शुद्धवाचनं करिष्यन्ति।
२. छात्राः शब्दार्थं, अनुवादं, भावार्थं च स्पष्टतया वदिष्यन्ति।
३. छात्राः प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखिष्यन्ति।
४. छात्राः परोपकारस्य आदर्शं स्वजीवने अनुसरिष्यन्ति।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

पाठ योजना के प्रमुख बिन्दु