पाठयोजना सङ्ख्या-०१

पाठयोजना सङ्ख्या -०१
वारः : बुधवासरात् मङ्गलवासरपर्यन्तम्
दिनाङ्कः : १७/०६/२०२६ तः २३/०६/२०२६ पर्यन्तम्
कक्षा : १२
विषयः : संस्कृतम्
अध्यायः : प्रथमः पाठः – विद्ययाऽमृतमश्नुते
पूर्णाङ्काः : १००
पाठस्य सम्पूर्णतायै आवश्यकानां पाठकालानां सङ्ख्या : ०६
सामान्य उद्देश्यानि-
१. विद्यार्थिषु उपनिषद्-साहित्यस्य प्रति रुचिं जनयितुम्।
२. ईशावास्योपनिषदः मूलसिद्धान्तान् ज्ञापयितुम्।
३. नैतिकाध्यात्मिकमूल्यानां विकासं कर्तुम्।
४. त्यागस्य, कर्मणः, ज्ञानस्य च महत्त्वं बोधयितुम्।
५. संस्कृतभाषायाः प्रति प्रेम्णः विकासं कर्तुम्।
अधिगमफलानि / विशिष्टोद्देश्यानि-
पाठाध्ययनानन्तरं छात्राः—
१. ईशावास्योपनिषदः परिचयं दातुं समर्थाः भविष्यन्ति।
२. मन्त्राणां शुद्धोच्चारणं कर्तुं समर्थाः भविष्यन्ति।
३. शब्दार्थान् हिन्दी-अनुवादं च अवगन्तुं समर्थाः भविष्यन्ति।
४. विद्यायाः अविद्यायाश्च स्वरूपं विवेचयितुं समर्थाः भविष्यन्ति।
५. कर्मणः, त्यागस्य, आत्मज्ञानस्य च महत्त्वं स्पष्टीकर्तुं समर्थाः भविष्यन्ति।
६. पाठाधारितप्रश्नानाम् उत्तराणि दातुं समर्थाः भविष्यन्ति।
शिक्षणविधयः
१. व्याख्यानविधिः
२. प्रश्नोत्तरविधिः
३. चर्चाविधिः
४. पठन-पाठनविधिः
५. सहभागितामूलका शिक्षणविधिः
शिक्षण-अधिगम-सहायक-सामग्री
१. शाश्वती भाग-२ पाठ्यपुस्तकम्।
२. श्यामपट्टः, लेखनी, खडिका च।
३. आलेखाः (Charts)।
४. उपनिषद्विषयकचित्राणि।
५. कार्यपत्रकम्।
पूर्वज्ञानम्
१. छात्राणां वेदोपनिषदां सामान्यज्ञानम् अस्ति।
२. संस्कृतभाषायाः सामान्यव्याकरणज्ञानम् अस्ति।
३. नैतिकमूल्यानां धार्मिकग्रन्थानां च सामान्यपरिचयः अस्ति।
पाठकालः-१
दिनाङ्कः : १७/०६/२०२६
अध्यापनबिन्दुः
पाठपरिचयः एवं ईशावास्योपनिषदः परिचयः।
शिक्षकक्रियाकलापाः
१. पाठस्य नाम लिखिष्यति।
२. ईशावास्योपनिषदः परिचयं दास्यति।
३. ‘उपनिषद्’ शब्दस्य व्युत्पत्तिं व्याख्यास्यति।
४. पाठस्य उद्देश्यानि कथयिष्यति।
छात्रक्रियाकलापाः
१. सावधानतया श्रोष्यन्ति।
२. प्रश्नानाम् उत्तराणि दास्यन्ति।
३. आवश्यकटिप्पणीः लिखिष्यन्ति।
श्यामपट्टकार्यं
१. ईशावास्योपनिषदः परिचयः।
२. उपनिषद्-शब्दस्य व्युत्पत्तिः।
३. पाठस्य उद्देश्याः।
मूल्याङ्कनम्
१. उपनिषद् इति किम्?
२. ईशावास्योपनिषद् कस्मिन् वेदे अन्तर्भवति?
३. उपनिषद्-शब्दस्य व्युत्पत्तिं लिखत।
पाठकालः-२
दिनाङ्कः : १८/०६/२०२६
अध्यापनबिन्दुः
प्रथम-द्वितीयमन्त्रयोः अध्ययनम्।
शिक्षकक्रियाकलापाः
१. मन्त्राणां शुद्धोच्चारणं कारयिष्यति।
२. शब्दार्थान् कथयिष्यति।
३. अनुवादं भावार्थं च व्याख्यास्यति।
४. त्यागस्य निष्कामकर्मणश्च महत्त्वं बोधयिष्यति।
छात्रक्रियाकलापाः
१. मन्त्रपाठं करिष्यन्ति।
२. शब्दार्थान् लिखिष्यन्ति।
३. भावार्थं ज्ञास्यन्ति।
श्यामपट्टकार्यं
१. ईशावास्यमिदं सर्वम्।
२. त्यागपूर्वकभोगः।
३. निष्कामकर्म।
मूल्याङ्कनम्
१. “तेन त्यक्तेन भुञ्जीथाः” इत्यस्य अर्थं लिखत।
२. निष्कामकर्मणः लाभः कः?
३. प्रथममन्त्रस्य भावार्थं लिखत।
पाठकालः-३
दिनाङ्कः : १९/०६/२०२६
अध्यापनबिन्दुः
तृतीय-चतुर्थमन्त्रयोः अध्ययनम्।
मूल्याङ्कनम्
१. आत्महनः कः उच्यते?
२. असुर्याः लोकाः के?
३. चतुर्थमन्त्रस्य मुख्यभावः कः?
पाठकालः-४
दिनाङ्कः : २२/०६/२०२६
अध्यापनबिन्दुः
पञ्चममन्त्रस्य अध्ययनम्।
मूल्याङ्कनम्
१. विद्या इति किम्?
२. अविद्या इति किम्?
३. केवलविद्या अथवा केवलाविद्या कथं न पर्याप्ता?
पाठकालः-५
दिनाङ्कः : २३/०६/२०२६
अध्यापनबिन्दुः
षष्ठमन्त्रस्य अध्ययनम्।
मूल्याङ्कनम्
१. धीरपुरुषाः के?
२. विद्यायाः अविद्यायाश्च फले किं भेदः?
३. मन्त्रस्य भावार्थं लिखत।
पाठकालः-६
दिनाङ्कः : २४/०६/२०२६
पाठोत्तर अभ्यास-
विषय : संस्कृतम्
कक्षा : १२
पाठ : विद्ययाऽमृतमश्नुते
समय : ४५ मिनट
शिक्षण उद्देश्य
पाठ के अध्ययन के उपरान्त विद्यार्थी—
(१) संस्कृतभाषया प्रश्नानाम् उत्तराणि लिखितुं समर्थाः भविष्यन्ति।
(२) मन्त्राणां भावार्थं तथा तात्पर्यं स्पष्टयितुं समर्थाः भविष्यन्ति।
(३) सप्रसङ्गव्याख्यां लिखितुं समर्थाः भविष्यन्ति।
(४) अन्वय, प्रकृति-प्रत्यय, सन्धि, सन्धिविच्छेद, वाक्यरचना, पर्यायवाची तथा विलोमपदानि कर्तुं समर्थाः भविष्यन्ति।
(५) पाठस्य दार्शनिकं तथा नैतिकं सन्देशं जीवने धारयितुं प्रेरिताः भविष्यन्ति।
पूर्वावृत्तिः
(१) ईशावास्यमिदं सर्वम् इत्यस्य अर्थः कः?
(२) विद्या-अविद्ययोः किं भेदः?
(३) तेन त्यक्तेन भुञ्जीथाः इति वाक्यस्य संदेशः कः?
शिक्षण प्रक्रिया
(१) प्रश्नोत्तर-अभ्यास
शिक्षकः विद्यार्थिभिः निम्नलिखितानां प्रश्नानाम् उत्तराणि लिखापयेत्—
(क) संस्कृतभाषया उत्तरं लिखत।
(ख) ईशावास्यम्… कस्यस्विद्धनम् इत्यस्य भावं सरलसंस्कृतभाषया लिखत।
(ग) 'अन्धन्तमः प्रविशन्ति… विद्यायां रताः' इति मन्त्रस्य भावार्थं लिखत।
(घ) 'विद्यां चाविद्यां च… अमृतमश्नुते' इति मन्त्रस्य तात्पर्यं लिखत।
(२) रिक्तस्थानपूर्ति
विद्यार्थिभिः रिक्तस्थानानि पूरयन्तु—
(क) इदं सर्वं जगत् ................
(ख) मा गृधः ................
(ग) शतं समाः ............... जिजीविषेत्।
(घ) असुर्या नाम लोका ............... आवृताः।
(ङ) अविद्योपासकाः ............... प्रविशन्ति।
(३) सप्रसङ्गव्याख्या
शिक्षकः निम्नलिखितानां पद्यानां व्याख्यां लिखापयेत्—
(क) तेन त्यक्तेन भुञ्जीथाः।
(ख) न कर्म लिप्यते नरे।
(ग) तस्मिन्नपो मातरिश्वा दधाति।
(घ) अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते।
(ङ) एवं त्वयि नान्यथेतोऽस्ति।
(च) तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः।
(छ) अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत्।
(४) व्याकरणाभ्यास
(क) उपनिषन्मन्त्रयोः अन्वयं लिखत।
(ख) प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत।
(ग) प्रकृति-प्रत्यय-विभागं कुरुत।
(घ) अधोलिखितपदानि आश्रित्य वाक्यरचनां कुरुत।
(ङ) सन्धिं अथवा सन्धिविच्छेदं कुरुत।
(च) समुचितं योजनं कुरुत।
(छ) पर्यायपदानि लिखत।
(ज) विलोमपदानि लिखत।
छात्र-क्रियाकलाप
(१) मौखिकरूपेण उत्तरप्रस्तुतिः।
(२) श्यामपट्टे उत्तरलेखनम्।
(३) समूहकार्येण व्याकरणप्रश्नानां समाधानम्।
(४) परस्परं उत्तरपुस्तिकायाः परीक्षणम्।
मूल्यांकन
(१) संस्कृतभाषया प्रश्नोत्तरलेखनम्।
(२) भावार्थस्य शुद्धता।
(३) व्याख्यालेखनकौशलम्।
(४) व्याकरणप्रश्नानां समाधानम्।
(५) शुद्धोच्चारणम् तथा शुद्धलेखनम्।
गृहकार्य
(१) सम्पूर्णानां अभ्यासप्रश्नानाम् उत्तराणि पुनः लिखत।
(२) प्रमुखमन्त्राणि कण्ठस्थानि कुरुत।
(३) विद्या-अविद्ययोः विषये लघुनिबन्धं लिखत।
(४) सन्धि, प्रकृति-प्रत्यय तथा अन्वयस्य पुनरभ्यासं कुरुत।
अपेक्षित अधिगमफल
(१) विद्यार्थी सम्पूर्णान् अभ्यासप्रश्नान् स्वयमेव समाधातुं समर्थाः भविष्यन्ति।
(२) मन्त्राणां भावार्थं तात्पर्यं च स्पष्टयिष्यन्ति।
(३) व्याकरणसम्बद्धप्रश्नान् शुद्धतया करिष्यन्ति।
(४) ईशावास्योपनिषदः जीवनोपयोगिनः आदर्शान् स्वजीवने अनुसरिष्यन्ति।
पाठकालः-७
दिनाङ्कः : २५/०६/२०२६
अध्यापनबिन्दुः
सप्तममन्त्रस्य अध्ययनम्।
मूल्याङ्कनम्
१. “अविद्यया मृत्युं तीर्त्वा” इत्यस्य अर्थं लिखत।
२. “विद्याऽमृतमश्नुते” इत्यस्य भावं स्पष्टीकुरुत।
३. पाठस्य मुख्यसन्देशः कः?
पुनरावृत्तिः
१. ईशावास्योपनिषदः परिचयः।
२. त्यागस्य निष्कामकर्मणश्च महत्त्वम्।
३. आत्मनः परमात्मनश्च स्वरूपम्।
४. विद्याया अविद्यायाश्च विवेचनम्।
५. पाठस्य केन्द्रीयसन्देशः।
गृहकार्यम्
१. सर्वान् मन्त्रान् कण्ठस्थं कुरुत।
२. शब्दार्थान् भावार्थांश्च लिखत।
३. “विद्यायाः अविद्यायाश्च समन्वयः” इति विषये १०० शब्दपरिमितं अनुच्छेदं लिखत।
४. पाठाधारितप्रश्नोत्तराणि लिखत।
अन्यबिन्दवः-
१. दुर्बलविद्यार्थिनां प्रति विशेषं ध्यानं दीयते।
२. शुद्धोच्चारणस्य अभ्यासः कारयिष्यते।
३. नैतिकमूल्यानां विकासाय चर्चा क्रियते।
शिक्षकस्य नाम तथा हस्ताक्षरम् : संजय कुमार कुशवाहा-__________________
प्रधानाध्यापकस्य हस्ताक्षरम् : ________
अनुश्रवणपदाधिकाऱिणः हस्ताक्षरम् : ______

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

पाठ योजना के प्रमुख बिन्दु